Navagraha Stotram Hindi Lyrics

2

Navagraha Stotram Hindi Lyrics नवग्रहस्तोत्रम् is the prayer of Navgrahas composed by Sage Vyasa. Navagraha stuti, the mantra for Nine Planets starts with prayer to Surya, Japa Kusumasankasham.

नवग्रहस्तोत्रम्

जपाकुसुमसंकाशं काश्र्यपेयं महाद्युतिम् ।
तमोरिं सर्वपापघ्नं प्रणतोsस्ति दिवाकरम् ॥१॥

दधिशङ्‍कतुषाराभं क्षीरोदार्णवसम्भवम् ।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥२॥

धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् ।
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥३॥

प्रियङ्गुकुलिकाश्र्यामं रूपेणाप्रतिमं बुधम् ।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥४॥

देवानां च ऋषीणां च गुरूं काञ्चनसंनिभम् ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥५॥

हिमकुन्दमृणालाभं दैत्यानां परमं गुरूम् ।
सर्वशास्त्रप्रवक्तरं भार्गवं प्रणमाम्यहम् ॥६॥

निलाञ्जनसमाभासं रविपुत्रं यमाग्रजम् ।
छायामार्तणडसम्भूतं तं नमामि शनैश्र्वरम् ॥७॥

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।
सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम् ॥८॥

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥९॥

इति व्यासमुखोद् गीतं य: पठेत् सुसमाहित: ।
दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति ॥१०॥

नानारीनृपाणां च भवेद्दु:स्वप्ननाशनम् ।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ॥११॥

ग्रहनक्षत्रजा: पीडास्तस्कराग्नसमुद्भवा: ।
ता: सर्वा: प्रशमं यान्ति व्यासो ब्रूते न संशय: ॥१२॥

॥ इति व्यासविरचितं नवग्रहस्तोत्रं सम्पूर्णम् ॥

navagraha-stotram-hindi-lyrics

February 10, 2014 |

2 thoughts on “Navagraha Stotram Hindi Lyrics

  1. ছবিগুলো কি ভাবে ডাউনলোড করবো ?

Leave a Reply

Vantage Theme – Powered by WordPress.
Skip to toolbar